
श्री गोदा देव्याः तिरुप्पावै गीता
![IMG-20181017-WA0012[1].jpg](https://static.wixstatic.com/media/27f9bd_052b312f8be64b2ca3d082c7dd87accf~mv2.jpg/v1/fill/w_600,h_405,al_c,q_80,usm_0.66_1.00_0.01,enc_avif,quality_auto/IMG-20181017-WA0012%5B1%5D.jpg)
वेलुक्कुडि श्री उ. वे. श्रीकृष्णस्वामिने तिरुप्पावै सूक्ष्मार्थं सर्वेभ्यः दातुं ... मम कृतज्ञतां समर्पयामि। श्रीकृष्णस्वामिनः तिरुप्पावै उपन्यासे श्रुतं विषयं किञ्चित् लेखितुं अहं प्रयत्नं कृतवती। वाचक दोषं क्षमस्व।
तिरुप्पावै तनियन् :
नीळा-तुङ्ग स्तनगिरि-तटी सुप्तम् उद्बोध्य कृष्णम् पारार्थ्यम स्वं श्रुति-सत-शिरस्-सिद्धम् अध्यापयन्ती ।
स्वोच्छिष्टायां स्रजि निगळितं या बलात्कृत्य भुङ्क्ते| गोदा तस्यै नम इदमिदं भूय एवास्तु भूयः ॥
--- श्री परासर भट्टर्
*मार्गशीर्षः मासः*
श्री कृष्णः भगवद्गीतायां "मासानां मार्गशीर्षोSहम्" इति उक्तवान्। एषः मासः दनुर् मासः केशव मासः च इत्यपि दृश्यते।
मार्गशीर्षं इत्युक्ते श्रेष्टं वैकुण्ठं गन्तुं मार्गानां, उत्तमः मार्गः, एषः मासः इति; यतः उत्तरायण कालं वैकुण्ठं गन्तुम्, अर्च्चिराति मार्गस्य द्वारम् इव अस्ति। उत्तरायण कालात् पूर्वं दक्षिण कालायाः अन्तिम मासः मार्गशीर्षः मासः अस्ति।
सामान्यत: ब्रम्हमुहूर्तः अनुष्ठानं पूजां कर्तुं च उचितः समयः इति दृश्यते। मार्गशीर्षः मासः तु देवानां ब्रम्हमूहूर्तः। अतः एतस्मिन् मासे कर्तुं देवपूजनं बहु श्रेष्ठं इति दृश्यते।
*श्री गोदा देव्याः तिरुप्पावै गीता*
दनुर् मासस्य अन्येकः विशेषः गोदा देव्याः त्रिंशत् तिरुप्पावै गीता। साक्षात् भूमा देव्याः अवतारम् एव श्री गोदा देवी। तस्याः अन्येकः नामः "श्री आन्डाल्"। श्री गोता देव्याः अवतार रहस्यं प्रति पञ्चमे पासुरदिने पश्यामः चेत् इतोपि उचितं भवति।
श्री गोदा देवी गीतया वैकुण्ठं कथं प्राप्तव्यम् इति अस्मभ्यं अतीव कृपया उक्तवती। अतः "तिरुप्पावै गीता" तु श्रीवैकुण्ठ मार्गदर्शनं एव इति दृश्यते।
श्रीकृष्णकामं तु सामान्य कामं न; भक्त्याः परमा स्थितिः एव श्री कृष्णकामम्। श्री गोदा देवी तस्याः षट् वयसि अतीव कृष्ण भक्त्या तिरुप्पावै गीतां गीतवती।
प्रथमायां गीतायां श्री वैकुण्ठे स्थितं श्रीमन्नारायणं (पर रूपम्) वन्दितुं, द्वितीयां गीतायां क्षीराप्ति क्षेत्रे आदिशेशशयने स्थितं क्षीराप्तिनातं (व्यूह रूपम्) वन्दितुं, तृतीयां गीतायां त्रिविक्रमम् (विभवावतारम्) वन्दितुं च सूचितवती।
*पाशुर १ :*
श्री गोदा देवी... गोकुलं नाम्नि ग्रामे स्थिताः गोपिकाः..श्रीकृष्णं वन्दितुं... प्रोत्साहेन उच्चैः मधुर गीतं गायन्.. एवं आह्वयति।
"श्री मार्गमासि दिवसे पूर्णचन्द्रे स्नानाय वयं मिलित्वा गच्छामः।
श्रीमन् नन्दगोपस्य कुमारम् यशोदा मातायाः सिम्हशिशुरं च श्लागमाना गीतां गायामः।
श्रीकृष्णः मेघश्यामवर्णे आदित्यचन्द्रवदने अस्ति। सः कृष्णः एव तस्मै शरणागतं कृतं अस्मभ्यम् मोक्षफलं दास्यति। तं कृष्णं व्रतम् अनुसृत्य वन्दामहे।"... इति नगरे व्रतस्य गोषां करोति।
प्रथमेन पाशुरेन "श्रीकृष्णं प्राप्तुं व्रतं अनुसरणीयम्। सर्वे मिलित्वा आगच्छन्तु" इति प्रोत्साहेन आह्वयति।
*पाशुर २ :* द्वीतीयेन पाशुरेन, भूलोके वसितान् सर्वान् आहूय, व्रतनियमं एवं वदति।
"व्रत समये ब्रह्म मुहूर्थे उत्थाय स्नानं कुर्मः;
घृतं, क्षीरं च न स्वीकुर्मः; वयं शलकां पुष्पं तु स्वयं न धारयामः। (व्रतस्यानन्तरं कृष्णस्य हस्तेन एव धारणीयम्); सामान्य भोग्ये विषये कालं व्ययं न कृत्वा ....परमभोग्यं कृष्णः एव... इति चिन्तनेन तस्य कीर्तिं गायामः। अस्मभ्यं कृष्णस्नेहं एव आवश्यकम्। सामान्यं भोग्यं न... इति कृष्णं दर्शनीयम्।
पूर्वजान् अनुसृत्य एव कार्यं करणीयम्। पूर्वजेन त्यक्तं कार्यं न करणीयम्। तेषां कार्याणां "पराणां दोषं प्रति...अन्यस्य गृहं गत्वा उक्तं किंवदन्तीं"... तु निश्चयेन त्यक्तव्यम्; दानं धर्मं च स्वाभिमानं विना 'भगवत्प्रीत्यार्थं एव सत्कार्यं कुर्मः' इति ज्ञानेन कर्तव्यम्"
सूक्ष्मार्थ : शरीरे वसितान् जीवात्मान् आहूय "मानुष्य जन्मस्य प्रयोजनं जन्मसागरात् विमोचनम् एव। तन्निमित्तं श्रिकृष्णाय शरणागतं कुर्तुवन्तु" इति श्री गोदा देवी उपदिशति।
पाशुर ३:
वयं सर्वे त्रिविक्रमनामं गायन् व्रतं समाश्रयामः चेत् लोकक्षेममपि भवति। मासत्रयं वृष्टिः भविष्यति।....इति श्री गोदा देवी कृपया लोकक्षेमम् इच्छति।
यदि अधिकं वृष्टिः भवति तर्हि कृषिफलं नाशं भविष्यति। वृष्टिः तु नास्ति चेत् जलशोषं भविष्यति। अतः उपयुक्ता वृष्टिः आवश्यकम्। *सर्वत्र यथेष्टं संपत्तिः संपूर्णतरा भवतु* इति श्री गोदा देवी आशीर्वादं ददाति।
प्रथमायां गीतायां पुरुषार्थम् किम् (goal) इति वदति। द्वीतीयां गीतायां कथम् एतं पुरुषार्थं प्राप्तुं शक्यते इति उपायम् वदति.... कृत्य अकृत्य विवेगं प्रति... किं करणीयं...किं न करणीयं इति वदति। ...तारकं पोषकं भोग्यं सर्वं कृष्णः एव... कृष्णस्य कृपया एव अस्मभ्यं सर्वं लभ्यते इति ज्ञानेन कार्यं कर्तव्यम् इति वदति। तृतियां गीतायां लोकक्षेमं इच्छति।
एताभिः तिस्रः गीताभिः
*नारायणः* एव நாராயணனே பறை தருவான் (१) *परम स्वामिन्* பாற்கடலுள் பையத் துயின்ற பரமன்(२) *उत्तमः* च ஓங்கி உலகளந்த உத்தமன் इति परमं वेदान्तार्थं तिरुमन्त्रार्थमपि श्री गोदा देवी सुलभेन उक्तवती।
*पाशुर ४:*
एतेन पाशुरेण... भागवद्कैंकर्यस्य अवश्यं दृश्यते। सामान्यतया अपि कश्चन माता... तस्याः शिशुजनाय..... कोपि साहाय्यं करोति चेत्.... बहु सन्तोषम् अनुभवति।
श्री कृष्णः तु... सर्वेषां माता। सर्वे तस्य शिशुजनाः एव। तेषां जनानां.... ये कृष्णाय परिपूर्ण शरणागतं कुर्वन्ति.....तेभ्यः कृष्णस्य अतीव प्रीति लभ्यते।
श्री गोदा देवी तु श्रीकृष्णस्य प्रिय भक्ता। गोदया.. धृतां मालां एव... श्रीकृष्णः इष्टवान्। अतः.. वरुण देवः अपि .. कश्चित् कैङ्कर्य प्राप्तुं ... श्री गोदा देवीं प्रार्थितवान्।
श्री गोदा देवी... गोपिकानां दनुर्मास स्नानार्थं....लोकक्षेमार्थं च... मासत्रयं वर्षनीयम्... इति वरुण देवाय... आज्ञां ददाति। कथं वर्षनीयम् .... इत्यपि वदति।
जगन्नातस्य श्याम वर्णः इव वर्णमेघेन....सागरात्...जलं सवीकृत्य..उत्स्तोभित्वा आकाशं गमनीयम्....अनन्तरं.....पद्मनाभस्य हस्ते स्थितः सुदर्शन चक्रः इव घनज्वालां (lightning) ....वलम्पुरि शङ्खनादः इव मेघगर्जनं (thunder) च कृत्य श्रीरामचन्द्रस्य हस्तात् शरवर्षिन् इव ....सर्वं जलं वर्षणीयम् इति सुन्दरतरा उक्तवती।
*सूक्ष्मार्थः* आच्छार्याः .... श्रीकृष्णस्य कृपा सागरात् ...औदार्यं..कारुण्यं...सौहार्दं... एतान् गुणान्.... स्वीकृत्य .... अस्मभ्यं तं कृपावृर्ष्टिं वर्षीय अनुग्रहं कुर्वन्ति।
श्रीमन्नारायणः श्रीवैकुण्ठे...कृपया... सङ्कल्पित्वा... ब्रम्हदेवसृष्ट्याः पूर्वमेव... आदौ समष्टि सृष्टिं (महान्...अहङ्कारम्...पञ्चभूतानि..इत्यादि... २४ तत्वानि) करोति।
श्रीगोदा देवी .. *ஊழிமுதல்வன்* नाम्ना तस्य *जकत्कारणत्वं*(creator) दर्शयति।
अनन्तरं क्षीराप्ति सागरे ब्रम्हदेवं सृष्टित्वा.... तेन... व्यष्टि सृष्टिं करोति। *पद्मनाभस्य* नाम्ना तस्य *औदार्यं*(magnanimity) *सौहार्दं*(affection) च दर्शयति।
पाशुर ५:
श्रीवराह भगवान् हिरण्याक्षात् श्रीभूमादेवीं रक्षितवान्। तस्मिन् समये श्रीभूमादेवी... कृपया भूलोके वसितानां जनानाम् उज्जीवनार्थं.. उपायं किम्.. इति पृष्ठवती। भगवानपि वात्सल्येन *कीर्तनम् अर्चनम् आत्म समर्प्पणम्* इति त्रीन् उपायान् उक्तवान्।
एतान् विषयान् अस्मभ्यम् उपदिशतुम् साक्षात् भूमा देवी... श्री गोदा देव्याः अवतारं कृतवती। तिरुप्पावै पञ्चया गीतया ... एतान् सूक्ष्मार्थान् दत्तवती।
வாயினால் பாடி
மனதினால் சிந்தித்து
தூமலர் தூவி தொழுது
निर्माल्येन पुष्पेन अर्चनीयम् इति उक्तवती। प्रतिफलार्थं तु अर्च्चनं न करणीयम्। प्रीत्या कुर्मः चेत् निर्माल्यं अर्चनं भवति।
*श्री कृष्ण चरमश्लोकः*
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज | अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुच: || 66||
श्रीकृष्णेन भगवद्गीतायाः अन्ते उक्तं चरमश्लोगं तु वेदान्तस्य परम सारम्। परन्तु केचन जनेन विपरीदार्थं अवगतम्।
तस्यार्थंमपि श्री गोदा देवी पञ्चया गीतया सुलभेन स्पष्टं वदति।
चरमश्लोके श्रीकृष्णः तस्य मुख्यानां गुणानां विशेशं प्रदर्शयति। स्वामित्वम...वात्सल्यम्...सौशील्यम्...सौलप्यम्...आर्जवम्...इति ...एतान् गुणान् दृष्ट्वा..शरणागतं ज्ञानं लभ्यते।
*माम् एकं शरणं व्रज* इति वाक्प्रचारेण श्रीकृष्णस्य _स्वामित्वम्_ .... *अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि* इति तस्य _वात्सल्य भावम्_ ... *मा शुच:* इति तस्य _सौशील्यं सौलप्यं आर्जवम् स्वभावम्_ दृश्यते।
*स्वामित्वम्* -- श्रीकृष्णस्य महत्वम्, महानुभावत्वम्
*वात्सल्यम्* --- श्रीकृष्णः ..(शरणागतं कृतं) अस्माकं दोषमपि.. गुणमिव स्वीकृत्य अनुग्रहति।
*सौशील्यम्* --- यद्यपि श्रीकृष्णः जगन्नाथः ..तथापि सः तस्य भक्तैः सः मित्र भावेन मिश्री करोति (mingle with)
*सौलप्यम् आर्जवम्* --- यद्यपि श्रीकृष्णः लोकनाथः तथापि सर्वेन.. भक्त्या प्रीत्या च.. सुलभेन कृष्णं प्राप्तुं शक्यते।
श्री गोदा देवी एतस्यां गीतायां *मायन्(मायाकारः)* इति नाम्ना...श्रीकृष्णस्य परत्वं प्रदर्शयति। श्री कृष्णः एव परात्परः। *परात्परः* इत्युक्ते श्रीकृष्णः (श्रीमन्नारायणः) अपेक्षया... श्रेष्ठः.. कोपि... कुत्रापि ...नास्ति इति। भगवान् जगत्सृष्टिः तु ..सङ्कल्पमात्रेण सुलभेन.. करोति। प्रलयसमये सर्वीन्.. स्वस्य उदरे.. धरित्वा.. रक्षति। एतत्सर्वं कार्यं.. कथं करोति इति.. कोपि न जानाति। अतः *मायाकारः परात्परः च*
*वड मधुरै मैन्दन्* इति नाम्ना मधुरा नगरे ... अवतारं कृतः श्रीकृष्णः एव... सः *परात्परः मायन्* इति सूचयति।
*तूयपरुनीर् यमुनै तुरैवन्* इति नाम्ना श्रीकृष्णस्य *वात्सल्यं* गुणं प्रदर्शयति। यमुना नद्याः जलं तु ...श्यामवर्णे एव अस्ति। द्रष्टुं निर्माल्यं जलं न। परन्तु.. मधुरा नगरात्... श्री वसुदेवः श्री कृष्णं... गोकुलं नगरं नेतुं, नद्याः मद्ये.. सः चलितुं... मार्गं दत्तवती। मार्गे चलन् समये यमुना नदी... उपरि उपरि उद्गत्य ...श्रीकृष्णस्य पादस्पर्शंमपि कृतवती। यमुना नद्याः ...सदृशं उत्तमं कैङ्कर्यं द्रष्ट्वा.. सन्तुष्टः कृष्णः...तस्य बाल्यकाले ... यमुना नद्यामेव सर्वदा प्रीत्या जलक्रीड़ां कुर्वन् आसीत्।
*आयर्कुलत्तिनिल् तोन्रुम् अणिविलक्कु* इति नाम्ना भगवानस्य .._सौशील्यं_.. गुणं प्रदर्शयति। देवाः अपि भगवन्तं दर्शयितुं.. वैकुण्टं गन्तुं न शक्यते। परन्तु.. सः महात्मन् भगवान् ...भक्तैः सः मिश्री कर्तुं इच्छया ... गोकुले ..गोपानां मध्ये ...अवतारितवान्।
*तायै कुडल् विलक्कम् सय्द दामोदरन्* इति नाम्ना भगवानस्य _सौलप्यं_ गुणं प्रदर्शयति। यशोदा माता ... परात्परं कृष्णं ...उलूखबन्धनं कृतवती ... इति सर्वाय प्रदर्शयितुं... प्रीत्या ... *दामोदरः* नामं स्वीकृतवान्। सः एव भक्तवत्सलः।
सद्रशं *(परात्परः भक्तवत्सलः च)* कृष्णं... सर्वे त्रिकरणेषु
_१) मुखेन गीतव्यम्...२) मनसा स्मरणीयम्...३) निर्माल्येन (प्रतिफलार्थं न..प्रीत्या) पुष्मेन पूजनीयम्_
इति श्रीगोदादेवी कृपया उपदिशति।
श्रीकृष्णः वात्सल्येन *अस्मान् सर्व पापेभ्यो मोक्षयिष्यति* इति एतस्यां गीतायां *पोय पिलयुं* (पूर्वं पापम्) *पुगुतरुवान् ninranavum* (अज्ञानेन कृतं आगामि पापम्) *तीयिनिल् तूसागुम्*(सर्वं पापम् अग्नौ अदृश्यं भवति) इति वदति। अतः *मा शुचः* इति श्री गोदा देवी अस्मभ्यं आश्वासं ददाति।
श्री गोदा देवी, तिरुप्पावै गीतायां प्रथम पाशुर तः पञ्चम पाशुर पर्यन्तं भगवानस्य प्रभावं प्रति उक्तवती।
श्रीवैकुण्ठ नारायणः.....क्षीराप्ति नाथः.....त्रिविक्रमः.....श्रीरामः....श्रीकृष्णः.....इति नामभिः ...
१)नारायणः... सर्वस्यै (भगवानेव पुरुषः...जीवात्मा स्त्रीः) मोक्षं प्राप्तुं... सर्वाभिः सह आनन्दम् अनुभवितुम् च इच्छया ...जगत्सृष्टिं करोति
२)भगवान् ...सर्वासां रक्षणार्थं वैकुण्ठात् क्षीराप्तिक्षेत्रं आगत्य... सर्वाभ्यः सन्मार्गं प्रदर्शयितुं .....ब्रह्मदेवेन चतुर्वेदान् दत्तवान्।
३...५) साधु रक्षणार्थं ...शत्रु निरसनार्थं ...अस्मभ्यम् वेदान्तार्थं उपदिशतुं च ... बहवः अवतारान् करोति।
एवम्... भगवान् अस्माकम् उज्जीवनार्थं ...कियत् प्रयत्नं कुर्वन् अस्ति...इति उक्तवती।
पाशुर ६ तः पाशुर १५ पर्यन्तं ... भागवतस्य प्रभावं प्रति वदति।
यः/या भगवत्प्रीत्या आराधनं करोति...कस्मै ...भगवानस्य कटाक्षः लभ्यते...सः/सा एव भागवतः/भागवता.... भाग्यवान्/भाग्यवती च।
महत् भक्ताः तु भगवन्तं उत्थापयितुमेव सुप्रभातं गीतं गीतवन्तः। परन्तु श्री गोदा देवी एव....भागवताः उत्थापयितुं सुप्रभातं गीतं गीतवती।
प्रति पाशुरे...एकां एकां गोपिकां प्रत्येक नाम्ना आह्वयति। तां उत्थाप्य ...उत्तम भागवतप्रभावमपि सूचयति।
श्रीवराह भगवान् हिरण्याक्षात् श्रीभूमादेवीं रक्षितवान्। तस्मिन् समये श्रीभूमादेवी... कृपया भूलोके वसितानां जनानाम् उज्जीवनार्थं.. उपायं किम्.. इति पृष्ठवती। भगवानपि वात्सल्येन *कीर्तनम् अर्चनम् आत्म समर्प्पणम्*६... एषा गोपिका तु ... कृष्णभक्ता। परन्तु कृष्णभक्तस्य प्रभावं न जानाति। अतः... एतां गोपिकां *पिल्लाय् (अज्ञाता)* इति नाम्ना आहूय ...
*कृष्णप्रभावेन सह कृष्णभक्तस्य प्रभावमपि ज्ञातव्यम्* इति उपदिशति।
जगत्सृष्टि समये ... भगवान् सन्कल्पित्वा ... स्वयं जकदिव परिणमति। सर्व जीवात्मा तु ....तस्य शरीरस्य अङ्गमेव।
उपादानम् (प्रकृति) ... निमित्तम् (कर्ता) ... सहकारी (ज्ञान भक्ति वैराग्येण कृता सृष्टि) इति त्रिविधकरणमपि भगवानेव।
अतः श्रीकृष्णः एव सकल विशयाय *वित्तु (मूलम्)* इति ज्ञानेन हरि स्मरणम् आवश्यकम् इत्यपि सम्बोधयति।
श्री गोदा देवी ... तिरुप्पावै गीतायां ... प्रत्येक पाशुरेण ... उज्जीवन सोपानमार्गे ... कथं ...क्रमषः ...आरोहणीयं ..इति अस्मभ्यम् उपदिशति।
१... प्राप्य ज्ञानम्
प्राप्यम् किम्? *श्रीमन्नारायणाय कैंकर्यप्राप्ति*। ("नारायणने नमक्के परै तरुवान्")
एतस्य प्राप्यस्य महत्वं प्रति ज्ञानम्....
*जनन मरण चक्रात् विमोचनम्। सदा सर्वदा आनन्दानुभवम्*
२... प्राप्यस्य प्राबल्यं ज्ञात्वा एव.... तदर्थं ....प्रयत्नं कर्तुं इच्छा... कल्पते। प्राप्यं प्राप्तुम् उपायं किम्? *वैराग्यम्*
("सय्याधन सय्यों")
महत् प्राप्यज्ञानस्यानन्तरं ... प्रयत्नं कर्तुं वैराग्यं लभ्यते।
स्वयं प्रयत्नेन न शक्यते। भगवानस्य कृपया एव साध्यम् इति ज्ञानेन...तस्य परमात्मनस्य कमल चरणारविन्दौ *शरणाकतं* ...("परमनडि पाडि") *नाम सङ्कीर्तनं* च करणीयम्।
पापकर्मं अन्तरेण (தவிர்த்து) ...पुण्यकर्मं तु... तस्य फलं... कृष्णाय समर्पयन् करणीयम्।
३... वैराग्येण कृतं ... (कृत्य करण...अकृत्य अकरण) एतस्सत्कार्येण... लोकक्षेममपि प्राप्तम्। ("नीन्गात सल्वम् निरैन्दु") *परोपकार कार्यम्* करणीयम्
४...तदनन्तरं.... आचार्यस्य कटाक्षं लभ्यते। ("ओन्रु नी कैकरवेल्...सर्वार्थान् ददातु" इति आचार्यं वदति) आच्छार्याः... अस्माकम् उज्जीवनार्थं वेदान्तस्य सर्वार्थान् ...सर्वाय वर्षितुं ... सदा सर्वदा ...सिद्धाः एव। सर्वे *आचार्यं आश्रयणीयम्*।
५...भगवद्वाचे ( *मा शुचः*) ...श्रुतेः ( *वेदेषु* in Vedas)....च.. श्रद्धातव्यम्... *पूर्ण विश्वासम्*
("वायिनाल् पाडि... मनदिनाल् सिन्दित्तु... तूमलर् तूवित् तोलुताल् ... सर्वपापम् तीयिनिल् तूसागुम्")
सर्वं कृष्णार्पणं कृत्य ... अस्माकं जीवनं प्रति शोकं विना ...स्वधर्मं आचरणीयम्।
श्री गोदा देवी ... उत्तर (following) ... दश पाशुरैः ... कृष्ण भक्तां उत्थापयितुं ... सुप्रभातं गीतं गायति। प्रत्येक पाशुरेण .... भक्तजनस्य .... अत्यावश्यकान् भव्य गुगान् (required qualities)....प्रति वदन्ती अस्ति।
*पाशुर ६:*
एतस्यां गीतायां ... *पिल्लाय्* इति नाम्ना एकां गोपिकां ...उत्थाप्य... पक्षि नादम्...पक्षिराजस्य मन्दिरे श्वेतशङ्खस्य नादम्...च...प्रातः सूर्योदयं सूचयति! .. मुनयः योगिनः च .... भूतनावदं शकटासुरवदं कृत्वा आदिसेशशयने सुप्तं कृष्णं...मनसिकृत्य... *हरि नाम* सङ्कीर्तनं कुर्वन्ति। हरि नामं श्रुत्वा अस्माकं हृदयमपि भक्त्या शीतलं भवति खलु! उत्तिष्ठतु! इति श्री गोदा देवी कृष्णानुभवार्थं तां गोपिकाम् आह्वयति।
एषा गोपिका ...भाकवतप्रभावं न ज्ञात्वा ...ताभिः सह एव... मिलित्वा कृष्णानुभवं करणीयम्... इत्यपि न ज्ञात्वा ..एकाकिनी कृष्णं अनुभवन्ती आसीत्। अतः *पिल्लाय् (अज्ञाता)* इति आह्वयति।
_सहेतुक संसारम् अपहरति हरिः।_
_हरिः हरति पापानि।_
_हरिः अस्माकं पंँचेन्द्रियाणि अपि तस्य सौन्दर्रय स्वरुपेण अपहरति ।_
अतः हरि नाम सङ्कीर्तनं परमं श्लाघ्यम्।
कृष्णं प्रति वास्तविक ज्ञानेन हरि स्मरणं करणीयम् इत्यपि सूचयति।
श्री गोदा देवी ... तिरुप्पावै गीतायां ... प्रत्येक पाशुरेण ... उज्जीवन सोपानमार्गे ... कथं ...क्रमषः ...आरोहणीयं ..इति अस्मभ्यम् उपदिशति।
१... प्राप्य ज्ञानम्
प्राप्यम् किम्? *श्रीमन्नारायणाय कैंकर्यप्राप्ति*। ("नारायणने नमक्के परै तरुवान्")
एतस्य प्राप्यस्य महत्वं प्रति ज्ञानम्....
*जनन मरण चक्रात् विमोचनम्। सदा सर्वदा आनन्दानुभवम्*
२... प्राप्यस्य प्राबल्यं ज्ञात्वा एव.... तदर्थं ....प्रयत्नं कर्तुं इच्छा... कल्पते। प्राप्यं प्राप्तुम् उपायं किम्? *वैराग्यम्*
("सय्याधन सय्यों")
महत् प्राप्यज्ञानस्यानन्तरं ... प्रयत्नं कर्तुं वैराग्यं लभ्यते।
स्वयं प्रयत्नेन न शक्यते। भगवानस्य कृपया एव साध्यम् इति ज्ञानेन...तस्य परमात्मनस्य कमल चरणारविन्दौ *शरणाकतं* ...("परमनडि पाडि") *नाम सङ्कीर्तनं* च करणीयम्।
पापकर्मं अन्तरेण (தவிர்த்து) ...पुण्यकर्मं तु... तस्य फलं... कृष्णाय समर्पयन् करणीयम्।
३... वैराग्येण कृतं ... (कृत्य करण...अकृत्य अकरण) एतस्सत्कार्येण... लोकक्षेममपि प्राप्तम्। ("नीन्गात सल्वम् निरैन्दु") *परोपकार कार्यम्* करणीयम्
४...तदनन्तरं.... आचार्यस्य कटाक्षं लभ्यते। ("ओन्रु नी कैकरवेल्...सर्वार्थान् ददातु" इति आचार्यं वदति) आच्छार्याः... अस्माकम् उज्जीवनार्थं वेदान्तस्य सर्वार्थान् ...सर्वाय वर्षितुं ... सदा सर्वदा ...सिद्धाः एव। सर्वे *आचार्यं आश्रयणीयम्*।
५...भगवद्वाचे ( *मा शुचः*) ...श्रुतेः ( *वेदेषु* in Vedas)....च.. श्रद्धातव्यम्... *पूर्ण विश्वासम्*
("वायिनाल् पाडि... मनदिनाल् सिन्दित्तु... तूमलर् तूवित् तोलुताल् ... सर्वपापम् तीयिनिल् तूसागुम्")
सर्वं कृष्णार्पणं कृत्य ... अस्माकं जीवनं प्रति शोकं विना ...स्वधर्मं आचरणीयम्।
श्री गोदा देवी ... उत्तर (following) ... दश पाशुरैः ... कृष्ण भक्तां उत्थापयितुं ... सुप्रभातं गीतं गायति। प्रत्येक पाशुरेण .... भक्तजनस्य .... अत्यावश्यकान् भव्य गुगान् (required qualities)....प्रति वदन्ती अस्ति।
एषा गोपिका तु ... कृष्णभक्ता। परन्तु कृष्णभक्तस्य प्रभावं न जानाति। अतः... एतां गोपिकां *पिल्लाय् (अज्ञाता)* इति नाम्ना आहूय ...
*कृष्णप्रभावेन सह कृष्णभक्तस्य प्रभावमपि ज्ञातव्यम्* इति उपदिशति।
जगत्सृष्टि समये ... भगवान् सन्कल्पित्वा ... स्वयं जकदिव परिणमति। सर्व जीवात्मा तु ....तस्य शरीरस्य अङ्गमेव।
उपादानम् (प्रकृति) ... निमित्तम् (कर्ता) ... सहकारी (ज्ञान भक्ति वैराग्येण कृता सृष्टि) इति त्रिविधकरणमपि भगवानेव।
अतः श्रीकृष्णः एव सकल विशयाय *वित्तु (मूलम्)* इति ज्ञानेन हरि स्मरणम् आवश्यकम् इत्यपि सम्बोधयति।
*पाशुर ७*
एषा गोपिका तु ... कृष्णभक्तः श्रेष्ठः इति जानाति। परन्तु ... भक्त कैंकर्यं कर्तुं विस्मृतवती।
अतः एतां गोपिकां *पेय्प्पण्णे* (असुर शक्त्या कृष्णभक्ति करोति) इति आहूय ...
केवलं ज्ञानं न पर्याप्तम्। कृष्ण कैंकर्येण सह *कृष्णभक्ताय अपि कैंकर्यं करणीयम्* इति सम्बोधयति।
अनन्तरं *अस्माकं नायिका* .... *तेजस्वी* इति नामभ्यामपि आह्वयति।
एतेन पाशुरेण
भक्तेन ... परात्... *निन्दनम् .... अभिनन्दनम् द्वयमपि समान रीत्या स्वीकरणीयम्*
*आप्त बन्धुः ... अस्मान् निन्दति चेदपि .... अस्माकं शोभनार्थमेव निन्दति*
इति ज्ञातव्यम्।
श्री गोदा देवी ... षष्ठमे पाशुरे...कृष्ष्णस्य प्रथमं चेष्टितम् (भूतनावधम्) ... सप्तमी पाशुरे ... अन्तिमं चेष्टितम् (केशीवधम्)च उक्त्वा ... कृष्णस्य सर्वचेष्टितान् ....एताभ्यां पाशुराभ्याम् उक्तवती इति दृश्यते।
*पाशुर ८*
एषा गोपिका तु ....श्रीकृष्णं अपेक्षया ...कृष्णभक्ताय... कौतूहलेन सेवां कर्तुं गुणवती। तेन कारणेन ...श्रीकृष्णाय... एतां गोपिकां कृते ..अतीव कौतूहलम् अस्ति। अतः ... श्री गोदा देवी ...श्रीकृष्णस्य ... प्रियं अधिकं... संपादिता एतया गोपिकया सह एव ... कृष्णं वन्दितुं गन्तव्यम् ... इति अन्यान् गोपिकान् आनीय ... तस्यै... *कौतुहलमुडैय पावाय्* इति नाम्ना आह्वयति।
एतेन पाशुरेण श्री गोदा देवी *सत्सङ्गस्य महत्वम्...तस्य आवश्यकम्* प्रति सूचयति।
कथं भगवत्कैंकर्यात्... भक्तकैंकर्यम् ... श्रेष्ठम्? किमर्थं भगवानपि तां (तस्य भक्ताय कृतं सेवाम्) इच्छति? सत्सङ्गं कथं अस्मभ्यं साहाय्यं करोति?
१) भगवान् तु *स्वतंत्रः नाथः*(uncontrolled, independent)। भक्तः *परतन्त्रः शिष्यः*।
वयं ...परतन्त्रम् (भगवत्सेवां) प्रति ...भक्तात् एव ज्ञातुं शक्यते।
२) भगवान् *मौनी(silent)*। देवालये भगवान् अर्चारूपेण अस्ति। वयं अस्माकं कष्टं... तस्मै वदति चेदपि ... भगवान् ...अस्मान् आश्वासनं (प्रत्यक्षरूपेण) न करोति। *कश्चित् भक्तेन एव... अस्मभ्यम् दृढप्रत्ययं (firm confidence) ददाति*
३) भगवान् *उदासीनः (Neutral)*। यद्यपि भगवान्... अन्तरात्म रूपेण... अस्मान् हृदये एव ... वसन् अस्ति....तथापि ... सः ..एकः साक्षिन् इव ...अस्माकं सर्वकर्माणि पश्यति। कश्चित् भक्तेनैव ... अस्मान् सन्मार्गे नयति। अतः भगवदाज्ञां ज्ञातुं सत्सङ्गम् आवश्यकम्।
४) भक्ताय कैंकर्यं कर्तुं समये एव ... अस्माकम् अहङ्कारम् ...ममकारम्...च.. चलतः।
श्री गोदा देव्यै नमः
सर्वं श्रीकृष्णार्पणमस्तु
पाशुर ९
श्री गोदा देवी ...एतेन पाशुरेण अपि ...पञ्चमी पाशुर इव ...अनेकान् वेदान्तार्थान् प्रदर्शयति।
प्रथमं ...वयम् ...एकेन भक्तेन ...सन्मार्गे...(advancing) अभिप्रवृत्तार्थं .... तस्य भक्तस्य प्राकृत सम्बन्धम् (relationship) अभिमन्तव्यम् (to be desired)। अतः एतां गोपिकां *मामान् मगले* (uncle's daughter) इति बन्धुभावेन आह्वयति। तस्याः जननीमपि *मामीर्* (aunty) इति आहूय.. तस्याः पुत्रीं उत्थाप्य... प्रार्थयति।
*मामान् मगले मणिक्कदवं ताल् तिरवाय्* (कृपया गृहस्य द्वारं उद्घाटनं करोतु) इति प्रार्थयति।
कृष्णः तु प्रीत्या ... अस्माकं हृदयैव (हृदये एव) सर्वदा ...अस्ति। परन्तु ... *द्वारद्वयं* ... अस्मभ्यं ... भगवत् दर्शनं प्राप्तुं ... स्तम्भनं कुरुतः।
प्रथमं द्वारं *अहङ्कारः*
देहात्मभिमानम्
भगवान् अस्माकं प्रियसंवासार्थं (company) कुतूहलेन आगच्छन् समये...वयम् अस्माकं देहचिन्तनैव स्मः चेत् भगवान् दुःखेन गच्छति।
अस्माकं देहमेव आत्मा इति चिन्तनं विना *भगवानस्य देहमेव अस्माकम् आत्मा* इति ज्ञानेन अहङ्कार द्वारस्य उद्घाटनं भवति।
रामायणे ... ब्रम्हादि देवाः ..श्रीरामं *जगत्सर्वं शरीरं ते* इति उक्तवन्तः।
श्रीकृष्णः... तस्य विश्वरूपेण ...सर्वं तस्य शरीरमेव ... इति प्रमाणितवान्।
द्वितीयं *ममकारः*
यदि अस्माकं चिन्तनं
भगवान् स्वामि। अहं तस्य सम्पत्ति।
अथवा
अहं स्वामि। भगवान् मम सम्पत्ति।
इति अस्ति तर्हि.. भगवान् अतीव सन्तोषम् अनुभवति।
अन्यथा
अस्माकं भगवत् सम्बन्धं विस्मृत्य.... अहमेव स्वामि..सम्सारिक वस्तूनि एव मम सम्पत्ति ... इति चिन्तनं ...ममकार द्वारम्।
आचार्यस्य कटाक्षेनैव ... ममकारद्वारस्य उद्घाटनं भवति।
एतस्मिन् पाशुरे ... प्रातःकालस्य सूचनं नास्ति। गोपिकायाः स्वप्नकोष्ठस्य वर्णनम् अस्ति।
शुद्ध रत्नेन अलङ्कृत पर्यङ्कस्य परितः ... दीपैः...
उष्णं विना दीपप्रकाशं अस्ति।
निर्धुम (smokekess) धूपगन्धमपि अस्ति।
सदृश सुन्दरे पर्यङ्के सुप्तं गोपिकां उत्थाप्य ... श्री गोदा देवी .. भगवन्नामं भजितुम् आह्वयति।
श्री वेदव्यासः ...ब्रह्मसूत्रे... आत्मनः विशेषगुणान् प्रति ...द्वयोः सूत्रयोः... *आत्मन् ... नित्यम् ... सूक्ष्मः अणुः...ज्ञानमयम्* ... इति प्रमाणितवान्
सूत्राः
१) गुणात्वा आलोकवतु।
२) व्यतिरेहो गन्धवतु तथा हि दर्शयति। (गन्धेन ... दूपस्य निरूपणम्)
एताभ्यां सूत्राभ्याम् ... आत्मनः गुणः ... सूर्यः / दीपः ..इव ... स्वयं प्रकाशयति ... अन्यान् वस्तूनपि प्रकाशयति .. इति स्पष्टेन ज्ञातम्।
श्री रामानुजाच्चार्या... तस्य श्रीभाष्ये (ब्रह्मसूत्रस्य भाष्यम्)...आत्मन्...स्वगुणेन..ज्ञानेन....सकलं देहं व्याप्य...अवस्थितः ..इति उक्तवान्। द्युमणि (सूर्यः) इव।
यद्यपि आत्मन् सूक्ष्मः... तथापि...तस्य धर्मभूतज्ञानेन.. संपूर्णे शरीरे ...आनन्दं पीडां च अनुभवति।
आतमनः ज्ञानेन ... इन्द्रियाणि ... सकलम् अनुभवन्ति।
इन्द्रियेण आत्मानं प्रति ज्ञातुं न शक्यते ..अतः अव्यक्तम्.. परन्तु ... (कामक्रोदलोभं विना) हृदयेन ... किञ्चित् व्यक्तम् (ज्ञातुं शक्यते)
गुरुणा ..आगमं (शास्त्रेण अतीन्द्रिय विषयं) ज्ञातव्यम् .. ततः परम् .. बुद्ध्या चिन्तयित्वा ... आत्मविषयं ज्ञातुं शक्यते।
आत्मन् स्वयं विज्ञानम् (ज्ञानस्वरूपम्)... विज्ञाता (ज्ञानगुणकः) च..... दीपः इव...
_न हि विज्ञातुः विज्ञातेः ... विबरिलोभो ... हि विद्यते_ ऐतेन सूत्रेण ... *आत्मनः (Atma's) ज्ञानम्* ... इति स्पष्टम् दृश्यते।
_तत्गुण सारत्वात् तु तत् व्यपतेशः प्राज्ञयवतु_... एतेन सूत्रेण ... आत्मन् संपूर्णता.. ज्ञानेन व्यापकम्। अतः *आत्मन् स्वयं ज्ञानम्* इत्यपि दृश्यते।
आत्मनः ज्ञानं.. हृदयात् ...नेत्रं (दर्शनम्).. वाचं (पदानि words).. जिह्वां (रुचि taste), घ्राणं (अभिजिघ्रति smell) समारोहति।
प्रज्ञया वाचं समारुह्य...वाचा सर्वानि नामानि अवाप्नोति।
प्रज्ञया घ्राणं समारुह्य ... घ्राणेन सर्वान् गन्धान् अवाप्नोति।
मद्ये .. किमपि विग्नं (प्रकाशं विना दृष्टुं न शक्यते) अस्ति चेत्... धर्मभूत ज्ञानम् न प्रसरति..
अतः
१) वस्तु (दीपः /दूपः / ज्ञानम्)
२) प्रकाशः (धर्मभूतज्ञानम्)
३) ग्रहणम् (परमात्म .. जीवात्म ज्ञानम्) त्रयमपि आवश्यकम्
श्री गोदा देवी ...आत्म विषय ज्ञानम् .. इदृश दृष्टान्तेन ...प्रदर्शयति।
दीपः ... प्रकाशः... गोपिकाभिः ग्रहणम्।
दूपः ... गन्धम् ... गोपिकाभिः ग्रहणम्।
जीवात्मन् .. परमात्मानं प्रति ज्ञातुम् इच्छया ..प्रयत्नं करोति चेत्... भगवान् बहु आनन्देन... इतोपि ज्ञानं.. तस्मै दत्वा ... स्वयं प्रदर्शयति।
एषा गोपिका एतस्सर्वं ज्ञातवती। अतः श्री गोदा देवी तस्याः प्रकृति संबंधं (आत्म बन्धुः) इच्छति।
गोदा देवी एतेन पाशुरेण ... सहस्रासहस्र भगवन्नाम सङ्कीर्तनं करणीयम् इति सूचयति।
श्री गोदा देवी ... एतस्याः गोपिकायाः मातरं आहूय ... *भवत्याः पुत्री मूका बालिका वा?* भगवन्नामं वक्तुं न शक्नोति वा *बधिरा बालिका वा?* "अस्माकं भगवन्नाम सङ्कीर्तनं श्रोतुमपि न शक्नोति वा? *आलस्यम् वा?* आलस्येन अस्माभिः सह ... नाम सङ्कीर्तनं कर्तुं न इच्छति वा? अथवा *किमपि इन्द्रजाल कारणेन मूर्छति वा?* इति पृच्छति।
एतैः प्रष्णैः .. इन्द्रियाणाम् प्रयोजनम् भगवत् भागवत कैंकर्यमेव इति सूचयति।
इन्द्रजालमिव ...लोकविषयस्य बन्धम् ... सन्मार्गारोहणे महाविग्नं । सामान्य विषये इच्छां त्यक्त्वा ... सन्मार्गे गमनीयम्।
विष्णोः नामानि सहस्रमेव इति न। "देवो नाम सहस्रवान्" इति उत्तम वाक्यम्। विष्णुसहस्रनाम स्तोत्रे ... एकैकं नामं भगवानस्य एकैकं गुणं प्रदर्शयति। प्रति गुणाय एकैकं सहस्रनामम् वक्तव्यम् इति सूचयितुं ... श्री गोदा देवी ... *मामायन्...मादवन्...वैकुन्दन् एन्रु एन्रु (इत्यादि) नामं पलवुं (बहूनि नामानि) नविन्रेलोरम्पावाय्* इति उपदिशति।
भगवत् तत्वम् ...मुख्यशः *परत्वं... श्रीयपतित्वं...सौलप्यम्*
इत्युच्यते।
*परत्व* गुणाः ... तस्य महानुभावत्वम् प्रदर्शयन्ति। तस्य महत्वं ज्ञात्वा ... तेन एव अस्माकं रक्षणं साध्यम् .... तस्मै कृत शरणागतेन सम्सार सागरात् विमोचनमपि लभ्यते ... इति महाविश्वासम् आगमिष्यति। *वैकुन्द नामम्* श्वैवैकुण्ठे स्थित *नारायणः* इति तस्य महत्वं प्रदर्शयति। *परात्परः* (देवानां देवः ... सर्व श्रेष्ठः) *पद्मनाभः* (सृष्टिकर्ता) *जनार्धनः* (यः जीवात्मानं सम्सार सागरात् विमोचयति) *जगन्नाथः* इत्यादि नामानि... तस्य परत्व गुणं प्रदर्शयन्ति।
*श्रीयपतित्वम्* प्रदर्शित नामाः ... भगवानस्य परत्वं द्रष्ट्वा ... वयं तस्य समीपं गन्तुं शङ्का (hesitation) न आवश्यकम् ...जगन्माता.. श्रीलक्ष्मी देवी ...
तस्याः शिशुजनान् अस्मान् .. परमात्मने सङ्गमितुं पुरुशकारं करोति .... इति अस्मभ्यं आश्वासनम् (hope) ददति।
जगन्माता ... परमात्मने .... _सर्वे आवयोः शिशुजनाः खलु!!अतः कृपया तेषां दोषान् क्षम्य .. अनुग्रहं करोतु_ ... इति मात्रुवात्सल्येन ... प्रशंसां (recommendation) कुर्वन्ती अस्ति। सा अस्मभ्यं _सदृशं भक्तवत्सलाय श्रीमन्नारायणाय शरणागतं कृत्वा ... सन्मार्गे गच्छतु_ इति उपदिशति।
*श्रीमन्नारायणः* *मादवः* *श्रीदरः* इत्यादि नामानि श्रीयपतित्वं प्रदर्शयन्ति।
*सौलप्य नामाः* भक्तवत्सलः भगवान् तु तस्य भक्ताय किमपि कर्तुं सिद्धः। *दामोदरः... पाण्डव तूतः...गोविन्दः* इत्यादि नामाः तस्य एतस्सवभावं प्रदर्शयन्ति। *भगवानस्य ... परत्वं द्रष्ट्वा भीत्या न ... सौलप्यं द्रष्ट्वा प्रीत्या भक्ति करणीयम्* इत्यपि एतानि नामानि सूचयन्ति।
परत्वं..सौलप्यम् द्वयमपि ... लक्ष्मी संबंधेन एव .. अतः श्रीलक्ष्मीमातां प्रतमं वन्दित्वा अनन्तरं श्रीमन्नारायणं वन्दनीयम्।
एतेन पाशुरेण ... _आत्मं प्रति वेदान्त विषयाः_ _इन्द्रिय प्रयोजनम्_ _भगवत् तत्वम्_ _बहुविधानि नामानि_... सर्वं सूचयति।
पाशुर १०
श्री गोदा देवी नवम दशम पाशुरयोः गोपिकायाः *परुन्तुयिल्* (deep sleep) सुषुप्तिं श्लाघते। किमर्थं एवं निद्रां प्रशंसति?
कदा सुषुप्तिं प्राप्तुं शक्यते? जीवनं प्रति किमपि चिन्ता नास्ति चेदेव सम्यक् निद्रां प्राप्तुं शक्यते।
निद्रिता गोपिका अपेक्षया जाकरूका गोपिका श्रेष्ठा इति न। सर्वाः गोपिकाः परमभक्ताः एव।
गोपिकासु मनसि द्विविधा निष्टा स्तः
१) प्रथमा निष्टा
*प्राप्यम् ..उपायं .. द्वयमपि कृष्णः एव*।
*प्राप्यम्*... कृष्णः एव प्राप्तव्यम्।
*उपायम्* … कृष्णेनैव कृष्णं प्राप्तव्यम्।
अतः (त्वरां विना) निर्भयोनिर्भरो अस्मि इति...
_स्वय प्रयत्नेन न साध्यम् ... भगवानस्य कृपया एव साध्यम्_ इति ज्ञानेन.. निश्चिन्तया निद्रां करोति।
भगवान् सर्व जीवात्मभ्यः मोक्षप्राप्तं (श्वैरीवैकुण्ठे परमात्मना सह आनन्दानुभवम्) दातुं इच्छया .. बहवः प्रयत्नान् कुर्वन् अस्ति।
१.. लोक श्रिष्टि
२.. वेदाः .. वेदान्तार्थः
३.. स्वावताराः ...राम .. कृष्ण.. इत्यादि अवताराः
४.. (वेदान्तार्थं अस्मभ्यम् उपदिशतुम्) आल्वार् आचार्यावताराः
५.. अन्तरात्मनः
इति क्रमेण प्रयत्नैः .. कृषिकरः इव .. सहनेन ..प्रतीक्षां कुर्वन् अस्ति।
यदा एकः जीवात्मनः .. लोकानुभवं त्यज्य कृष्णानुभवं इच्छति ... तदा एव .. तस्मिन् जीवात्मनः कृते ... तस्य सृष्टि फलं अलभत् इति .. भगवान् मोदते।
एषा गोपिका तु सदृशमेव। अतः भगवान् एतस्याः सृष्टिफलं प्राप्तवान् ..इति तृप्त्या .. आनन्देन निद्रां करोति।
*यः जानाति मामेव पुरुशोत्तमम् सः सर्ववित् भजतिवान्* इति श्रीकृष्णवाक्यम्। एक विज्ञानेन सर्वविज्ञानम्।
_द्वितीया निष्टा .._
प्राप्यं कृष्णः एव। उपायमपि सः एव। किन्तु ...केवलं ज्ञानं न पर्याप्तम् .. ज्ञानेन सह अनुष्टानवृद्धि अपि परम आवश्यकम्।
*कैंकर्यं विना शेशत्वं न सिध्यति*। जीवात्मा अपि
अचेतनमिव भवति।
अतः द्वीतीया निष्टा _मोक्षं प्राप्तुं.. उपाय रीत्या किमपि न करणीयम्_... किन्तु *मोक्षप्राप्तं ...कृपया दायिन् कृष्णाय ... उपाय रीत्या न... कैंकर्य रीत्या यावत् शक्ति अस्ति .. तावत् करणीयम्*
एतस्मिन् पाशुरे *नोट्रु स्वर्गं पुगुगिन्र अम्मनाय्* इति _स्वर्गम् (कृष्णानुभवम्) प्राप्तुं सिद्धां गोपिकां आहूय_ ... *माट्रमुं तारारो वासल् तिरवादार्* इति _भवति तु द्वारं न उद्घाटयति ..किमर्थं प्रतिवादमपि न ददाति?_ *नाट्रत्तुलाय् मुडि नारायणन्* तुलसीपत्रं धारित कृष्णः *नम्माल् पोट्रप् परै तरुं पुण्णियनाल्* अस्माभिः वन्द्य फलं ददाति *पण्डरुनाल् कूट्रत्तिन् वाय् वील्न्द कुम्बकर्णनुं* _कदाचिद् उपमृत कुम्बकर्णः अपि_ *तोट्रुमुनक्के परुन्तुयिल्तान् तन्दानो!!* _सनिद्र स्पर्धायां भवत्या विजित सः ... भवत्यै तस्य निद्रामपि दत्तवान् वा?_ *आट्र अनंतलुडैयाय् अरुन्गलमे* _सुश्रान्त भवति!गुणवती!_ *तेट्रमाय् वन्दु तिरवेलोरम्पावाय्* _तरुणतया आगत्य द्वारस्य उद्धाटनं करोतु_ इति वार्तालापं करोति।
श्री गोदा देवी एतेन पाशुरेण .. आचार्य प्रभावं प्रति वदति। एतस्मिन् पाशुरे ...प्रथमं *कट्रुक्ट्करवै गणन्गल् पल करन्दु ...सट्रार् तिरललिय सन्ड्रु सरुच्चय्युम् .. कुट्रम् ओन्रिल्लाद कोवलर्तं पर्कोडिये* ... वर्णाश्रम धर्मं आश्रितः कोवलः इति ... गोपिकायाः जनकं श्लागते।
कट्रुक्ट्करवै इत्युक्ते बाल्य कालैव क्षीरं दत्ताः धेनवः इति। यथा बालिका गोदा देवी .. भक्त प्रह्लातः ... बाल दुरुवः च बाल्य काले भगवदनुग्रहं प्राप्तवन्तः .. तथा एव ... भगवदनुग्रहेण... बाल्य धेनवः अपि क्षीरं दातुं शक्नुवन्ति। *भगवदनुग्रहम् अस्ति चेत् किमपि न असाध्यम्* इति सूचयति। श्रीकृष्ण स्पर्श कारणेन बाल्य धेनवः अपि क्षीरं ददति। अन्यार्थः ... बहवः गोवत्सैः (शिशवः) सह स्थिताः धेनवः इति।
गणन्गल् पल इत्युक्ते ... बहवः धेनवानां गणः एकः गणः... तेषां गणानां गणाः ... तादृशम् बहवः गणाः। सर्वेभ्यः गणेभ्यः एतस्मिन् कोवलः एव क्षीरं स्वीकरोति। कथं साध्यम्?
तस्य कार्यं तु... धेनुं स्पर्शित्वा .. श्रीकृष्णः ... क्षीरं पातुं प्रतीक्षां कुर्वन् अस्ति ... इति वक्तव्यम्। क्षणेन सर्वाः धेनवः बहु क्षीरं दातुं अरम्भं कुर्वन्ति। तदनन्तरम् .. तेन पात्राणां परिवर्तन कार्यमेव करणीयम्।
एतेन द्रष्टान्तेन ... श्री गोदा देवी अस्मभ्यम् ... आचार्याणां प्रभावं प्रति ... उपदिशति। आचार्याः अस्मभ्यं सर्व वेदान्तार्थं दातुं सर्वदा सिद्धाः एव। वयं तु तान् नमस्कृत्य .. भगवद्विषयं ज्ञातुं आगतवन्तः ... इति प्रार्थयामः चेत् ते मात्रुभावेन प्रीत्या .. सर्वार्थान् ददति ... यतः आचार्यः... भगवानस्य सम्पत्तिं (जीवात्मन्) तस्य कृते नेतुं .. इच्छया प्रतीक्षां कुर्वन् अस्ति। अतः *आचार्यः आश्ररयणमेव अस्माकं कर्तव्यम्*
एकः आचार्यः ... सन्कल्प रूप.. योग रूप ज्ञानेन .. परं पञ्चेन्द्रियात् ... (Beyond senses) बहवः शिष्येभ्यः बोधयितुं शक्नुवन्ति।
सिद्ध साधन सर्वेश्वरस्य कृपया ... कृतनिश्चयः कोवलः ... श्रीकृष्णस्य शत्रून् .. तेषां अधिष्ठानं गत्य ... तान् हन्तुं समर्थः इत्यपि कोवलस्य प्रभावं वदति। वर्णाश्रमानुष्ठाने ... युद्धक्रमे ...किञ्चिदपि दोषं विना कोवलः इति श्लागते।
*पर्कोडिये* इति नाम्ना ... सा लता इव सुन्दरवती ... *पुट्ररवल्कुल् पुनमयिले* इति नाम्ना .. सा कृशकटिं प्राप्तवती ..इति वदति। तस्याः कृशकटि ... तस्याः वैराग्यं प्रदर्शयति। कृष्णः यदा एतां गोपिकां (मयूरीं) पश्यति तदा ... मयूरः इव आनन्देन नृत्यति इत्यपि तस्याः वैभवं सूचयति।
सशेषं...